MCCRF - A global volunteer network

Atma Vidya Vilasam - Sanskrit only - Devanagari-ISO-ITRANS

AUM
आत्मविद्या-विलासः
श्रीसदाशिवेन्द्र-सरस्वती-विरचितः


अथ आत्मविद्या-विलासः ।
चिन्मुद्रित-कर-कमलं चिन्तित-भक्तेष्टदं विमलम् ।
गुरुवरम्-आद्यं कञ्चन निरवधिकानन्द-निर्भरं वन्दे ॥


वटतरु-निकट-निवासं पटुतर-विज्ञान-मुद्रित-कराब्जम् ।
कञ्चन देशिकम्-आद्यं कैवल्यानन्द-कन्दलं वन्दे ॥ १॥


निरवधि-संसृति-नीरधि निपतित-जन-तारण-स्फुरन्नौकाम् ।
परमत-भेदन-घुटिकां परमशिवेन्द्रार्य-पादुकां नौमि ॥ २॥


देशिक-परमशिवेन्द्रा देश-वशोद्बुद्ध-दिव्य-महिमाऽहम् ।
स्वात्मनि विश्रान्ति-कृते सरसं प्रस्तौमि किञ्चिदिदम् ॥ ३॥


निरुपम-नित्य-निरीहो निष्कल-निर्माय-निर्गुणाकारः ।
विगलित-सर्वविकल्पः शुद्धो बुद्धश्चकास्ति परमात्मा ॥ ४॥


स्वाविद्यैक-निबद्धः कुर्वन्कर्माणि मुह्यमानः सन् ।
दैवाद्विधूत-बन्धः स्वात्म-ज्ञानान्मुनि-र्जयति ॥ ५॥


माया-वशेन सुप्तो मध्ये पश्यन्सहस्रशः स्वप्नान् ।
देशिक-वचः प्रबुद्धो दीव्यत्यानन्द-वारिधौ कोऽपि ॥ ६॥


प्राकृत-भावमपास्य स्वीकृत-निजरूप-सच्चिदानन्दः ।
गुरुवर-करुणापाङ्गाद् गौरवम्-आसाद्य माद्यति प्राज्ञः ॥ ७॥


श्रीगुरु-कृपया सच्चित्सुख निजरूपे निमग्नधी-र्मौनी ।
विहरति कश्चन विबुधः शान्ताहन्तो नितान्त-मुदितान्तः ॥ ८॥


गुरुवर-करुणा-लहरी व्यतिकर-भर-शीतल-स्वान्तः ।
रमते यतिवर एको निरुपम-सुख-सीमनि स्वैरम् ॥ ९॥


श्रीदेशिक-वर-करुणा रविकर-समपोहितान्तर-ध्वान्तः ।
विहरन्मस्करि-वर्यो निरवधिकानन्द-नीरधावास्ते ॥ १०॥


जनि-विपरीत-क्रमतो बुद्ध्या प्रविलाप्य पञ्चभूतानि ।
परिशिष्टम्-आत्मतत्त्वं पश्यन्नास्ते मुनिः शान्तः ॥ ११॥


जगदखिलम्-इदम्-असारं मायिकम्-एवेति मनसि मन्वानः ।
पर्यटति पाटिताशः प्रगलित-मद-मान-मत्सरः कोऽपि ॥ १२॥


नात्मनि किञ्चिन्माया तत्कार्यं वाऽस्ति वस्तुतो विमले ।
इति निश्चयवानन्तः हृष्यत्यानन्द-निर्भरो योगी ॥ १३॥


त्वमहम्-अभिमान-हीनो मोदित-नाना-जनाचारः ।
विहरति बालवदेको विमल-सुखाम्भो-निधौ मग्नः ॥ १४॥


अवधूत-कर्म-जालो जड-बधिरान्धोपमः कोऽपि ।
आत्मारामो यतिराड् अटवी-कोणेष्वटन्नास्ते ॥ १५॥


शान्त्या दृढोपगूढः शान्त-समस्तान्य-वेदनोदारः ।
रमते रसज्ञ एको रम्ये स्वानन्द-पर्यङ्के ॥ १६॥


उन्मूलित-विषयारिः स्वीकृत-वैराग्य-सर्वस्वः ।
स्वात्मानन्द-महिम्नि स्वाराज्येऽस्मिन् विराजते यतिराट् ॥ १७॥


सवितर्यपि शीतरुचौ चन्द्रे तीक्ष्णेऽप्यधो वहत्यग्नौ ।
मायिकम्-इदम्-इति जानन् जीवन्मुक्तो न विस्मयी भवति ॥ १८॥


अज्ञान-वैरि-विजयी प्रज्ञा-मातङ्ग-मस्तकारूढः ।
विहरति संयमिराजः समरस-सुख-धाम्नि सर्वतो रम्ये ॥ १९॥


शान्ताहंकृति-दोषः सुसमाहित-मानसः कोऽपि ।
पूर्णेन्दु-शिशिर-भावो राजत्यानन्द-सत्य-चिद्रसिकः ॥ २०॥


तिष्ठन्परत्र धाम्नि स्वीय-सुखास्वाद्-अपरवशः कश्चित् ।
क्वापि ध्यायति कुहचिद् गायति कुत्रापि नृत्यति स्वैरम् ॥ २१॥


अगृहीताघ-कलङ्कः प्रशमित-सङ्कल्प-विभ्रमः प्राज्ञः ।
न्यक्कृत-कार्य-कलापस् तिष्ठत्यापूर्ण-सीमनि क्वापि ॥ २२॥


चपलं मन-कुरङ्गं चारु गृहीत्वा विमर्श-वागुरया ।
निगमारण्य-विहार-श्रान्तः शेते स्वधाम्नि कोऽप्येकः ॥ २३॥


दारुण-चित्त-व्याघ्रं धीरमनः-खड्ग-धारया हत्वा ।
अभयारण्ये कोऽपि स्वैर-विहारी जयत्येकः ॥ २४॥


सज्जन-हृदय-सरोज: उन्मीलनकर-धीकर-प्रसरः ।
एको यतिवर-पूषा निर्दोषश्चरति चिद्गगने ॥ २५॥


कुवलय-विकास-कारणम् अज्ञान-ध्वान्त-कौमुदी-प्रज्ञः ।
शुद्धो मुनीन्द्र-चन्द्रः सुरसेव्ये लसति विष्णुपदे ॥ २६॥


स्वानन्दामृत-सेकैर् आन्तर-संताप-संततिं शमयन् ।
चित्रम्-अचञ्चल-वृत्तिश् चिद्व्योमनि भाति योगिवर्य-घनः ॥ २७॥


सुमनः-सौरभ-मञ्जुल सञ्चार-निवारिताखिल-श्रान्तिः ।
संयमि-चारु-समीरो विहरत्यानन्द-संविद्-आरामे ॥ २८॥


निःश्रेयस-सरस-फले निर्मल-विज्ञान-पल्लव-मनोज्ञे ।
वीत-भये विपिन-तले यति-शितिकण्ठो विभाति कोऽप्येकः ॥ २९॥


निःसार-भुवन-मरुतलम् उत्सार्यानन्द-सार-रस-पूर्णे ।
वर-सरसि चिन्मयेऽस्मिन् परहंसः कोऽपि दीव्यति स्वैरम् ॥ ३० ।


निखिलागम-पल्लविते निगम-शिरस्तन्त्र-शीतलोद्याने ।
मधुरतर-मञ्जुवाचः कूजन्नास्ते यतीन्द्र-कलकण्ठः ॥ ३१॥


दारित-मोह-मदेभो दूरीकृत-सकल-दुरित-शार्दूलः ।
विबुधोत्तम-सिंहवरो विहरत्यानन्द-वितत-कान्तारे ॥ ३२॥


अज्ञान-मृग-वरोज्झित विज्ञानोत्तुङ्ग-श‍ृङ्ग-शिखरि-तले ।
मति-सलिल-शीतलाङ्गो यति-मद-कलभो विराजते विहरन् ॥ ३३॥


नासाञ्चल-निहिताक्षो नामादिभ्यो निवर्तित-स्वान्तः ।
तटिनी-तटेषु तत्त्वं ध्यायन्नास्ते यतिः कोऽपि ॥ ३४॥


आशावसनो मौनी नैराश्यालङ्कृतः शान्तः ।
करतल-भिक्षा-पात्रस् तरुतल-निलयो मुनि-र्जयति ॥ ३५॥


विजन-नदी-कुञ्ज-गृहे मञ्जुल-पुलिनैक-मञ्जुतर-तल्पे ।
शेते कोऽपि यतीन्द्रः समरस-सुख-बोध-वस्तु-निस्तन्द्रः ॥ ३६॥


भूतल-मृदुतर-शय्यः शीतल-वातैक-चामरः शान्तः ।
राका-हिमकर-दीपो राजति यति-राजशेखरः कोऽपि ॥ ३७॥


विपुल-शिलातल-फलके विमल-सरिद्वारि-परिवृतोदारे ।
मन्दं मलयज-पवने वाति प्रस्वपिति कोऽपि यतिराजः ॥ ३८॥


आन्तरमेकं किञ्चित् सन्ततम्-अनुसन्दधन्-महामौनी ।
करपुट-भिक्षाम्-अश्नन् नटति हि वीथ्यां जडाकृतिः कोऽपि ॥ ३९॥


प्रविलाप्य जगदशेषं परिशिष्टाखण्ड-वस्तु-परतन्त्रः ।
प्राश्नाति कवलम्-आस्ये प्राप्तं प्रारब्ध-कर्मणा कोऽपि ॥ ४०॥


निन्दति किमपि न योगी नन्दति नैवापरं किमप्यन्तः ।
चन्दन-शीतल-हृदयः कन्दलितानन्द-मन्थरः स्वास्ते ॥ ४१॥


सन्त्यज्य शास्त्र-जालं संव्यवहारं च सर्वतस्त्यक्त्वा ।
आश्रित्य पूर्ण-पदवीम् आस्ते निष्कम्प-दीपवद्-योगी ॥ ४२॥


तृण-पङ्क-चर्चिताङ्गस् तृणमिव विश्वं विलोकयन् योगी।
विहरति रहसि वनान्ते विजरा-मर-भूम्नि विश्रान्तः ॥ ४३॥


पश्यति किमपि न रूपं न वदति न श‍ृणोति किञ्चिदपि वचनम् ।
तिष्ठति निरुपम-भूमनि निष्ठाम्-अवलम्ब्य काष्ठवद्-योगी ॥ ४४॥


जात्यभिमान-विहीनो जन्तुषु सर्वत्र पूर्णतां पश्यन् ।
गूढं चरति यतीन्द्रो मूढवद्-अखिलागमार्थ-तत्त्वज्ञः ॥ ४५॥


उपधाय बाहुमूलं परिधायाकाशम्-अवनिम्-आस्तीर्य ।
प्रस्वपिति विरति-वनितां परिरभ्यानन्द-परवशः कोऽपि ॥ ४६॥


गतभेद-वासनाभिः स्वप्रज्ञोदार-वार-नारीभिः ।
रमते सह यतिराजस् त्रय्यन्तान्तः-पुरे कोऽपि ॥ ४७॥


वैराग्य-विपुल-मार्गं विज्ञानोद्दाम-दीपिकोद्दीप्तम् ।
आरुह्य तत्त्व-हर्म्यं मुक्त्या सह मोदते यतिराट् ॥ ४८॥


विजन-तलोत्पल-मालां वनिता-वैतृष्ण्य-कल्पवल्लीं च ।
अपमानामृत-गुटिकाम् आत्मज्ञः कोऽपि गृह्णाति ॥ ४९॥


न निषेधति दोषधिया गुणबुद्ध्या वा न किञ्चिदादत्ते ।
आविद्यकम्-अखिलमिति ज्ञात्वोदास्ते मुनिः कोऽपि ॥ ५०॥


भूतं किमपि न मनुते भावि च किञ्चिन्न चिन्तयत्यन्तः ।
पश्यति न पुरोवर्त्यपि वस्तु समस्तार्थ-समरसः कोऽपि ॥ ५१॥


निगृहीताखिल-करणो निर्मृष्टाशेष-विषयेहः ।
तृप्तिम् अनुत्तम-सीमां प्राप्तः पर्यटति कोऽपि यतिवर्यः ॥ ५२॥


सन्त्यजति नोपपन्नं नासम्पन्नं च वाञ्छति क्वापि ।
स्वस्थः शेते यतिराड् आन्तरम्-आनन्दम्-अनुभवन्नेकः ॥ ५३॥


कामपि विमलां पदवीम् आसाद्यानन्द-संविद्-उन्निद्राम् ।
आस्ते भिक्षुक एको विहरन्निर्मुक्त-बन्धनः स्वैरम् ॥ ५४॥


वस्तुन्यस्तमिताखिल विश्व-विहारे विलीन-मनाः ।
राजति परानपेक्षो राजाऽखिल-वीत-रागाणाम् ॥ ५५॥


आचार्यापाङ्ग-दृशा समवाप्तापार-संविद्-आकारः ।
प्रशमित-सकल-विभेदः परहंसः कश्चिद्-आभाति ॥ ५६॥


वर्णाश्रम-व्यवस्थाम् उत्तीर्य-विधूय विद्यादीन् ।
परिशिष्यते यतीन्द्रः परिपूर्णानन्द-बोध-मात्रेण ॥ ५७॥


क्षयम्-उपनीय समस्तं कर्म प्रारब्धम्-उपभुज्य ।
प्रविगलित-देह-बन्धः प्राज्ञो ब्रह्मैव केवलं भवति ॥ ५८॥



स्तिमितम्-अनन्तम्-अनाद्यं सन्ततम्-आनन्द-बोध-घनम् ।
अविकल्पम्-आद्यम्-एकं सन्मात्रं विद्यते किमपि ॥ ५९॥


अक्षरम्-अजरम्-अजातं सूक्ष्मतरापूर्व-शुद्ध-विज्ञानम् ।

प्रगलित-सर्व-क्लेशं परतत्त्वं वर्तते किमपि ॥ ६०॥


सुखतरम्-अमरम्-अदूरं सारं संसार-वारिधेस्-तीरम् ।
समरसम्-अभयम्-अपारं तत्किञ्चन विद्यते तत्त्वम् ॥ ६१॥


अरसम्-अगन्धम्-अरूपं विरजस्कम्-असत्त्वम्-अतमस्कम् ।
निरुपम-निर्भय-तत्त्वं तत्किमपि द्योतते नित्यम् ॥ ६२॥


इति गुरु-करुणापाङ्गाद् आर्याभि-र्द्व्यधिक-षष्टि-सङ्ख्याभिः ।
निरवद्याभिरवोचं निगम-शिरस्तन्त्र-सार-भूतार्थम् ॥ ६३॥


गदितम्-इमम्-आत्मविद्या विलासम्-अनुवासरं-स्मरन्-विबुधः ।
परिणत-परात्म-विद्यः प्रपद्यते सपदि परमार्थम् ॥ ६४॥


परमशिवेन्द्र-श्रीगुरु शिष्येणेत्थं सदाशिवेन्द्रेण ।
रचितेयम्-आत्मविद्या विलास-नाम्नी कृतिः पूर्णा ॥ ६५॥


इति श्रीमत्परमहंस-परिव्राजकाचार्य-
श्रीपरमशिवेन्द्र-सरस्वती-पादाब्ज-सेवा-परायण-
श्रीसदाशिवेन्द्र-सरस्वत्या विरचितः
आत्मविद्या-विलासः समाप्तः ॥


---
ātmavidyā-vilāsaḥ

śrī-sadāśivendra-sarasvatī-viracitaḥ

atha ātmavidyā-vilāsaḥ ।
cinmudrita-kara-kamalaṁ cintita-bhakteṣṭa-daṁ vimalam ।
guruvaram-ādyaṁ kañcana niravadhikānanda-nirbharaṁ vande ॥

vaṭataru-nikaṭa-nivāsaṁ paṭutara-vijñāna-mudrita-karābjam ।
kañcana deśikam-ādyaṁ kaivalyānanda-kandalaṁ vande ॥ 1॥

niravadhi-saṁsr̥ti-nīradhi nipatita-jana-tāraṇa-sphuran-naukām ।
paramata-bhedana-ghuṭikāṁ paramaśivendrārya-pādukāṁ naumi ॥ 2॥

deśika-paramaśivendrā deśa-vaśod-buddha-divya-mahimā'ham ।
svātmani viśrānti-kr̥te sarasaṁ prastaumi kiñcid-idam ॥ 3॥

nirupama-nitya-nirīho niṣkala-nirmāya-nirguṇākāraḥ ।
vigalita-sarva-vikalpaḥ śuddho buddhaś-cakāsti paramātmā ॥ 4॥

svāvidyaika-nibaddhaḥ kurvan karmāṇi muhya-mānaḥ san ।
daivād-vidhūta-bandhaḥ svātmajñānān-munir-jayati ॥ 5॥

māyā-vaśena supto madhye paśyan-sahasraśaḥ svapnān ।
deśika-vacaḥ-prabuddho dīvyatyānanda-vāridhau ko'pi ॥ 6॥

prākr̥ta-bhāvam-apāsya svīkr̥ta-nijarūpa-sac-cid-ānandaḥ ।
guru-vara-karuṇāpāṅgād gauravam-āsādya mādyati prājñaḥ ॥ 7॥

śrī-guru-kr̥payā sac-cit-sukha nijarūpe nimagna-dhīr-maunī ।
viharati kaścana vibudhaḥ śāntāhanto nitānta-muditāntaḥ ॥ 8॥

guru-vara-karuṇā-laharī vyatikara-bhara-śītala-svāntaḥ ।
ramate yativara eko nirupama-sukha-sīmani svairam ॥ 9॥

śrī-deśika-vara-karuṇā ravikara-samapohitāntara-dhvāntaḥ ।
viharan-maskari-varyo niravadhikānanda-nīradhā-vāste ॥ 10॥

jani-viparīta-kramato buddhyā pravilāpya pañca-bhūtāni ।
pariśiṣṭam-ātma-tattvaṁ paśyann-āste muniḥ śāntaḥ ॥ 11॥

jagad-akhilam-idam-asāraṁ māyikam-eveti manasi manvānaḥ ।
paryaṭati pāṭitāśaḥ pragalita-mada-māna-matsaraḥ ko'pi ॥ 12॥

nātmani kiñcin-māyā tatkāryaṁ vā'sti vastuto vimale ।
iti niścayavān-antaḥ hr̥ṣyatyānanda-nirbharo yogī ॥ 13॥

tvam-aham-abhimāna-hīno modita-nānā-janācāraḥ ।
viharati bālavad-eko vimala-sukhāmbho-nidhau magnaḥ ॥ 14॥

avadhūta-karma-jālo jaḍa-badhirāndhopamaḥ ko'pi ।
ātmārāmo yatirāḍ aṭavī-koṇeṣ-vaṭann-āste ॥ 15॥

śāntyā dr̥ḍhopa-gūḍhaḥ śānta-samastānya-vedanodāraḥ ।
ramate rasajña eko ramye svānanda-paryaṅke ॥ 16॥

unmūlita-viṣayāriḥ svīkr̥ta-vairāgya-sarvasvaḥ ।
svātmānanda-mahimni svārājye'smin virājate yatirāṭ ॥ 17॥

savitaryapi śīta-rucau candre tīkṣṇe'pyadho vahat-yagnau ।
māyikam-idam-iti jānan-jīvanmukto na vismayī bhavati ॥ 18॥

ajñāna-vairi-vijayī prajñā-mātaṅga-masta-kārūḍhaḥ ।
viharati saṁyami-rājaḥ samarasa-sukha-dhāmni sarvato ramye ॥ 19॥

śāntāhaṁkr̥ti-doṣaḥ susamāhita-mānasaḥ ko'pi ।
pūrṇendu-śiśira-bhāvo rājatyānanda-satya-cid-rasikaḥ ॥ 20॥

tiṣṭhan-paratra dhāmni svīya-sukhāsvād-aparavaśaḥ kaścit ।
kvāpi dhyāyati kuhacid gāyati kutrāpi nr̥tyati svairam ॥ 21॥

agr̥hītāgha-kalaṅkaḥ praśamita-saṅkalpa-vibhramaḥ prājñaḥ ।
nyakkr̥ta-kārya-kalāpas tiṣṭhat-yāpūrṇa-sīmani kvāpi ॥ 22॥

capalaṁ mana-kuraṅgaṁ cāru gr̥hītvā vimarśa-vāgurayā ।
nigamāraṇya-vihāra śrāntaḥ śete svadhāmni ko'pyekaḥ ॥ 23॥

dāruṇa-citta-vyāghraṁ dhīra-manaḥ-khaḍga-dhārayā hatvā ।
abhayāraṇye ko'pi svaira-vihārī jayat-yekaḥ ॥ 24॥

sajjana-hr̥daya-saroja: unmīlanakara-dhīkara-prasaraḥ ।
eko yativara-pūṣā nirdoṣaś-carati cid-gagane ॥ 25॥

kuvalaya-vikāsa-kāraṇam ajñāna-dhvānta-kaumudī-prajñaḥ ।
śuddho munīndra-candraḥ surasevye lasati viṣṇupade ॥ 26॥

svānandāmr̥ta-sekair āntara-saṁtāpa-saṁtatiṁ śamayan ।
citram-acañcala-vr̥ttiś cid-vyomani bhāti yogivarya-ghanaḥ ॥ 27॥

sumanaḥ-saurabha-mañjula sañcāra-nivāritākhila-śrāntiḥ ।
saṁyami-cāru-samīro viharatyānanda-saṁvid-ārāme ॥ 28॥

niḥśreyasa-sarasa-phale nirmala-vijñāna-pallava-manojñe ।
vīta-bhaye vipina-tale yati-śitikaṇṭho vibhāti ko'p-yekaḥ ॥ 29॥

niḥsāra-bhuvana-marutalam utsāryānanda-sāra-rasa-pūrṇe ।
vara-sarasi cinmaye'smin parahaṁsaḥ ko'pi dīvyati svairam ॥ 30 ॥

nikhil-āgama-pallavite nigama-śiras-tantra-śītalodyāne ।
madhuratara-mañjuvācaḥ kūjann-āste yatīndra-kalakaṇṭhaḥ ॥ 31॥

dārita-moha-madebho dūrīkr̥ta-sakala-durita-śārdūlaḥ ।
vibudhottama-siṁhavaro viharatyānanda-vitata-kāntāre ॥ 32॥

ajñāna-mr̥ga-varojjhita vijñānottuṅga-śa{}r̥ṅga-śikhari-tale ।
mati-salila-śīta-lāṅgo yati-mada-kalabho virājate viharan ॥ 33॥

nāsāñcala-nihitākṣo nāmādibhyo nivartita-svāntaḥ ।
taṭinī-taṭeṣu tattvaṁ dhyāyann-āste yatiḥ ko'pi ॥ 34॥

āśā-vasano maunī nairāśyālaṅkr̥taḥ śāntaḥ ।
karatala-bhikṣā-pātras tarutala-nilayo munir-jayati ॥ 35॥

vijana-nadī-kuñja-gr̥he mañjula-pulinaika-mañjutara-talpe ।
śete ko'pi yatīndraḥ samarasa-sukha-bodha-vastu-nistandraḥ ॥ 36॥

bhūtala-mr̥dutara-śayyaḥ śītala-vātaika-cāmaraḥ śāntaḥ ।
rākā-himakara-dīpo rājati yati-rājaśekharaḥ ko'pi ॥ 37॥

vipula-śilātala-phalake vimala-sarid-vāri-parivr̥todāre ।
mandaṁ malayaja-pavane vāti prasvapiti ko'pi yati-rājaḥ ॥ 38॥

āntaram-ekaṁ kiñcit santatam-anusandadhan-mahāmaunī ।
kara-puṭa-bhikṣām-aśnan naṭati hi vīthyāṁ jaḍākr̥tiḥ ko'pi ॥ 39॥

pravilāpya jagad-aśeṣaṁ pariśiṣṭākhaṇḍa-vastu-paratantraḥ ।
prāśnāti kavalam-āsye prāptaṁ prārabdha-karmaṇā ko'pi ॥ 40॥

nindati kimapi na yogī nandati naivāparaṁ kimapyantaḥ ।
candana-śītala-hr̥dayaḥ kandalitānanda-mantharaḥ svāste ॥ 41॥

santyajya śāstra-jālaṁ saṁvyavahāraṁ ca sarvatas-tyaktvā ।
āśritya pūrṇa-padavīm āste niṣkampa-dīpavad-yogī ॥ 42॥

tr̥ṇa-paṅka-carcitāṅgas tr̥ṇam-iva viśvaṁ vilokayan-yogī ।
viharati rahasi vanānte vijarā-mara-bhūmni viśrāntaḥ ॥ 43॥

paśyati kimapi na rūpaṁ na vadati na śa{}r̥ṇoti kiñcidapi vacanam ।
tiṣṭhati nirupama-bhūmani niṣṭhām-avalambya kāṣṭhavad-yogī ॥ 44॥

jātyabhimāna-vihīno jantuṣu sarvatra pūrṇatāṁ paśyan ।
gūḍhaṁ carati yatīndro mūḍhavad-akhilāgamārtha-tattvajñaḥ ॥ 45॥

upadhāya bāhu-mūlaṁ paridhāyākāśam-avanim-āstīrya ।
prasvapiti virati-vanitāṁ parirabhyānanda-paravaśaḥ ko'pi ॥ 46॥

gatabheda-vāsanābhiḥ svaprajñodāra-vāra-nārībhiḥ ।
ramate saha yati-rājas trayyantāntaḥ-pure ko'pi ॥ 47॥

vairāgya-vipula-mārgaṁ vijñānoddāma-dīpikod-dīptam ।
āruhya tattva-harmyaṁ muktyā saha modate yatirāṭ ॥ 48॥

vijana-talotpala-mālāṁ vanitā-vaitr̥ṣṇya-kalpavallīṁ ca ।
apamānāmr̥ta-guṭikām ātmajñaḥ ko'pi gr̥hṇāti ॥ 49॥

na niṣedhati doṣadhiyā guṇa-buddhyā vā na kiñcid-ādatte ।
āvidyakam-akhilamiti jñātvodāste muniḥ ko'pi ॥ 50॥

bhūtaṁ kimapi na manute bhāvi ca kiñcinna cintayatyantaḥ ।
paśyati na puro-vartyapi vastu samastārtha-samarasaḥ ko'pi ॥ 51॥

nigr̥hītākhila-karaṇo nirmr̥ṣṭāśeṣa-viṣayehaḥ ।
tr̥ptim-anuttama-sīmāṁ prāptaḥ paryaṭati ko'pi yativaryaḥ ॥ 52॥

santyajati nopapannaṁ nāsampannaṁ ca vāñchati kvāpi ।
svasthaḥ śete yatirāḍ āntaram-ānandam-anubhavann-ekaḥ ॥ 53॥

kāmapi vimalāṁ padavīm āsādyānanda-saṁvid-unnidrām ।
āste bhikṣuka eko viharan-nirmukta-bandhanaḥ svairam ॥ 54॥

vastunyastamitākhila viśva-vihāre vilīna-manāḥ ।
rājati parānapekṣo rājā'khila-vīta-rāgāṇām ॥ 55॥

ācāryāpāṅga-dr̥śā samavāptāpāra-saṁvid-ākāraḥ ।
praśamita-sakala-vibhedaḥ parahaṁsaḥ kaścid-ābhāti ॥ 56॥

varṇāśrama-vyavasthām uttīrya vidhūya vidyādīn ।
pariśiṣyate yatīndraḥ paripūrṇānanda-bodha-mātreṇa ॥ 57॥

kṣayam-upanīya samastaṁ karma prārabdham-upabhujya ।
pravigalita-deha-bandhaḥ prājño brahmaiva kevalaṁ bhavati ॥ 58॥

stimitam-anantam-anādyaṁ santatam-ānanda-bodha-ghanam ।
avikalpam-ādyam-ekaṁ sanmātraṁ vidyate kimapi ॥ 59॥

akṣaram-ajaram-ajātaṁ sūkṣmatarāpūrva-śuddha-vijñānam ।
pragalita-sarva-kleśaṁ paratattvaṁ vartate kimapi ॥ 60॥

sukhataram-amaram-adūraṁ sāraṁ saṁsāra-vāridhes-tīram ।
samarasam-abhayam-apāraṁ tatkiñcana vidyate tattvam ॥ 61॥

arasam-agandham-arūpaṁ virajaskam-asattvam-atamaskam ।
nirupama-nirbhaya-tattvaṁ tatkimapi dyotate nityam ॥ 62॥

iti guru-karuṇāpāṅgād āryābhir-dvyadhika-ṣaṣṭi-saṅkhyābhiḥ ।
niravadyābhir-avocaṁ nigama-śiras-tantra-sāra-bhūtārtham ॥ 63॥

gaditam-imam-ātmavidyā vilāsam-anuvāsaraṁ smaran-vibudhaḥ ।
pariṇata-parātma-vidyaḥ prapadyate sapadi paramārtham ॥ 64॥

paramaśivendra-śrīguru śiṣyeṇetthaṁ sadāśivendreṇa ।
raciteyam-ātmavidyā vilāsa-nāmnī kr̥tiḥ pūrṇā ॥ 65॥

iti śrīmat-paramahaṁsa-parivrājakācārya-
śrīparamaśivendra-sarasvatī-pādābja-sevā-parāyaṇa-
śrīsadāśivendra-sarasvatyā viracitaḥ
ātmavidyā-vilāsaḥ samāptaḥ ॥
---
AtmavidyA-vilAsaH

shrI-sadAshivendra-sarasvatI-virachitaH

atha AtmavidyA-vilAsaH |
chinmudrita-kara-kamalaM chintita-bhakteShTa-daM vimalam |
guruvaram-AdyaM ka~nchana niravadhikAnanda-nirbharaM vande ||

vaTataru-nikaTa-nivAsaM paTutara-vij~nAna-mudrita-karAbjam |
ka~nchana deshikam-AdyaM kaivalyAnanda-kandalaM vande || 1||

niravadhi-saMsRRiti-nIradhi nipatita-jana-tAraNa-sphuran-naukAm |
paramata-bhedana-ghuTikAM paramashivendrArya-pAdukAM naumi || 2||

deshika-paramashivendrA desha-vashod-buddha-divya-mahimA.aham |
svAtmani vishrAnti-kRRite sarasaM prastaumi ki~nchid-idam || 3||

nirupama-nitya-nirIho niShkala-nirmAya-nirguNAkAraH |
vigalita-sarva-vikalpaH shuddho buddhash-chakAsti paramAtmA || 4||

svAvidyaika-nibaddhaH kurvan karmANi muhya-mAnaH san |
daivAd-vidhUta-bandhaH svAtmaj~nAnAn-munir-jayati || 5||

mAyA-vashena supto madhye pashyan-sahasrashaH svapnAn |
deshika-vachaH-prabuddho dIvyatyAnanda-vAridhau ko.api || 6||

prAkRRita-bhAvam-apAsya svIkRRita-nijarUpa-sach-chid-AnandaH |
guru-vara-karuNApA~NgAd gauravam-AsAdya mAdyati prAj~naH || 7||

shrI-guru-kRRipayA sach-chit-sukha nijarUpe nimagna-dhIr-maunI |
viharati kashchana vibudhaH shAntAhanto nitAnta-muditAntaH || 8||

guru-vara-karuNA-laharI vyatikara-bhara-shItala-svAntaH |
ramate yativara eko nirupama-sukha-sImani svairam || 9||

shrI-deshika-vara-karuNA ravikara-samapohitAntara-dhvAntaH |
viharan-maskari-varyo niravadhikAnanda-nIradhA-vAste || 10||

jani-viparIta-kramato buddhyA pravilApya pa~ncha-bhUtAni |
parishiShTam-Atma-tattvaM pashyann-Aste muniH shAntaH || 11||

jagad-akhilam-idam-asAraM mAyikam-eveti manasi manvAnaH |
paryaTati pATitAshaH pragalita-mada-mAna-matsaraH ko.api || 12||

nAtmani ki~nchin-mAyA tatkAryaM vA.asti vastuto vimale |
iti nishchayavAn-antaH hRRiShyatyAnanda-nirbharo yogI || 13||

tvam-aham-abhimAna-hIno modita-nAnA-janAchAraH |
viharati bAlavad-eko vimala-sukhAmbho-nidhau magnaH || 14||

avadhUta-karma-jAlo jaDa-badhirAndhopamaH ko.api |
AtmArAmo yatirAD aTavI-koNeSh-vaTann-Aste || 15||

shAntyA dRRiDhopa-gUDhaH shAnta-samastAnya-vedanodAraH |
ramate rasaj~na eko ramye svAnanda-parya~Nke || 16||

unmUlita-viShayAriH svIkRRita-vairAgya-sarvasvaH |
svAtmAnanda-mahimni svArAjye.asmin virAjate yatirAT || 17||

savitaryapi shIta-ruchau chandre tIkShNe.apyadho vahat-yagnau |
mAyikam-idam-iti jAnan-jIvanmukto na vismayI bhavati || 18||

aj~nAna-vairi-vijayI praj~nA-mAta~Nga-masta-kArUDhaH |
viharati saMyami-rAjaH samarasa-sukha-dhAmni sarvato ramye || 19||

shAntAhaMkRRiti-doShaH susamAhita-mAnasaH ko.api |
pUrNendu-shishira-bhAvo rAjatyAnanda-satya-chid-rasikaH || 20||

tiShThan-paratra dhAmni svIya-sukhAsvAd-aparavashaH kashchit |
kvApi dhyAyati kuhachid gAyati kutrApi nRRityati svairam || 21||

agRRihItAgha-kala~NkaH prashamita-sa~Nkalpa-vibhramaH prAj~naH |
nyakkRRita-kArya-kalApas tiShThat-yApUrNa-sImani kvApi || 22||

chapalaM mana-kura~NgaM chAru gRRihItvA vimarsha-vAgurayA |
nigamAraNya-vihAra shrAntaH shete svadhAmni ko.apyekaH || 23||

dAruNa-chitta-vyAghraM dhIra-manaH-khaDga-dhArayA hatvA |
abhayAraNye ko.api svaira-vihArI jayat-yekaH || 24||

sajjana-hRRidaya-saroja: unmIlanakara-dhIkara-prasaraH |
eko yativara-pUShA nirdoShash-charati chid-gagane || 25||

kuvalaya-vikAsa-kAraNam aj~nAna-dhvAnta-kaumudI-praj~naH |
shuddho munIndra-chandraH surasevye lasati viShNupade || 26||

svAnandAmRRita-sekair Antara-saMtApa-saMtatiM shamayan |
chitram-acha~nchala-vRRittish chid-vyomani bhAti yogivarya-ghanaH || 27||

sumanaH-saurabha-ma~njula sa~nchAra-nivAritAkhila-shrAntiH |
saMyami-chAru-samIro viharatyAnanda-saMvid-ArAme || 28||

niHshreyasa-sarasa-phale nirmala-vij~nAna-pallava-manoj~ne |
vIta-bhaye vipina-tale yati-shitikaNTho vibhAti ko.ap-yekaH || 29||

niHsAra-bhuvana-marutalam utsAryAnanda-sAra-rasa-pUrNe |
vara-sarasi chinmaye.asmin parahaMsaH ko.api dIvyati svairam || 30 ||

nikhil-Agama-pallavite nigama-shiras-tantra-shItalodyAne |
madhuratara-ma~njuvAchaH kUjann-Aste yatIndra-kalakaNThaH || 31||

dArita-moha-madebho dUrIkRRita-sakala-durita-shArdUlaH |
vibudhottama-siMhavaro viharatyAnanda-vitata-kAntAre || 32||

aj~nAna-mRRiga-varojjhita vij~nAnottu~Nga-sha{}RRi~Nga-shikhari-tale |
mati-salila-shIta-lA~Ngo yati-mada-kalabho virAjate viharan || 33||

nAsA~nchala-nihitAkSho nAmAdibhyo nivartita-svAntaH |
taTinI-taTeShu tattvaM dhyAyann-Aste yatiH ko.api || 34||

AshA-vasano maunI nairAshyAla~NkRRitaH shAntaH |
karatala-bhikShA-pAtras tarutala-nilayo munir-jayati || 35||

vijana-nadI-ku~nja-gRRihe ma~njula-pulinaika-ma~njutara-talpe |
shete ko.api yatIndraH samarasa-sukha-bodha-vastu-nistandraH || 36||

bhUtala-mRRidutara-shayyaH shItala-vAtaika-chAmaraH shAntaH |
rAkA-himakara-dIpo rAjati yati-rAjashekharaH ko.api || 37||

vipula-shilAtala-phalake vimala-sarid-vAri-parivRRitodAre |
mandaM malayaja-pavane vAti prasvapiti ko.api yati-rAjaH || 38||

Antaram-ekaM ki~nchit santatam-anusandadhan-mahAmaunI |
kara-puTa-bhikShAm-ashnan naTati hi vIthyAM jaDAkRRitiH ko.api || 39||

pravilApya jagad-asheShaM parishiShTAkhaNDa-vastu-paratantraH |
prAshnAti kavalam-Asye prAptaM prArabdha-karmaNA ko.api || 40||

nindati kimapi na yogI nandati naivAparaM kimapyantaH |
chandana-shItala-hRRidayaH kandalitAnanda-mantharaH svAste || 41||

santyajya shAstra-jAlaM saMvyavahAraM cha sarvatas-tyaktvA |
Ashritya pUrNa-padavIm Aste niShkampa-dIpavad-yogI || 42||

tRRiNa-pa~Nka-charchitA~Ngas tRRiNam-iva vishvaM vilokayan-yogI |
viharati rahasi vanAnte vijarA-mara-bhUmni vishrAntaH || 43||

pashyati kimapi na rUpaM na vadati na sha{}RRiNoti ki~nchidapi vachanam |
tiShThati nirupama-bhUmani niShThAm-avalambya kAShThavad-yogI || 44||

jAtyabhimAna-vihIno jantuShu sarvatra pUrNatAM pashyan |
gUDhaM charati yatIndro mUDhavad-akhilAgamArtha-tattvaj~naH || 45||

upadhAya bAhu-mUlaM paridhAyAkAsham-avanim-AstIrya |
prasvapiti virati-vanitAM parirabhyAnanda-paravashaH ko.api || 46||

gatabheda-vAsanAbhiH svapraj~nodAra-vAra-nArIbhiH |
ramate saha yati-rAjas trayyantAntaH-pure ko.api || 47||

vairAgya-vipula-mArgaM vij~nAnoddAma-dIpikod-dIptam |
Aruhya tattva-harmyaM muktyA saha modate yatirAT || 48||

vijana-talotpala-mAlAM vanitA-vaitRRiShNya-kalpavallIM cha |
apamAnAmRRita-guTikAm Atmaj~naH ko.api gRRihNAti || 49||

na niShedhati doShadhiyA guNa-buddhyA vA na ki~nchid-Adatte |
Avidyakam-akhilamiti j~nAtvodAste muniH ko.api || 50||

bhUtaM kimapi na manute bhAvi cha ki~nchinna chintayatyantaH |
pashyati na puro-vartyapi vastu samastArtha-samarasaH ko.api || 51||

nigRRihItAkhila-karaNo nirmRRiShTAsheSha-viShayehaH |
tRRiptim-anuttama-sImAM prAptaH paryaTati ko.api yativaryaH || 52||

santyajati nopapannaM nAsampannaM cha vA~nChati kvApi |
svasthaH shete yatirAD Antaram-Anandam-anubhavann-ekaH || 53||

kAmapi vimalAM padavIm AsAdyAnanda-saMvid-unnidrAm |
Aste bhikShuka eko viharan-nirmukta-bandhanaH svairam || 54||

vastunyastamitAkhila vishva-vihAre vilIna-manAH |
rAjati parAnapekSho rAjA.akhila-vIta-rAgANAm || 55||

AchAryApA~Nga-dRRishA samavAptApAra-saMvid-AkAraH |
prashamita-sakala-vibhedaH parahaMsaH kashchid-AbhAti || 56||

varNAshrama-vyavasthAm uttIrya vidhUya vidyAdIn |
parishiShyate yatIndraH paripUrNAnanda-bodha-mAtreNa || 57||

kShayam-upanIya samastaM karma prArabdham-upabhujya |
pravigalita-deha-bandhaH prAj~no brahmaiva kevalaM bhavati || 58||

stimitam-anantam-anAdyaM santatam-Ananda-bodha-ghanam |
avikalpam-Adyam-ekaM sanmAtraM vidyate kimapi || 59||

akSharam-ajaram-ajAtaM sUkShmatarApUrva-shuddha-vij~nAnam |
pragalita-sarva-kleshaM paratattvaM vartate kimapi || 60||

sukhataram-amaram-adUraM sAraM saMsAra-vAridhes-tIram |
samarasam-abhayam-apAraM tatki~nchana vidyate tattvam || 61||

arasam-agandham-arUpaM virajaskam-asattvam-atamaskam |
nirupama-nirbhaya-tattvaM tatkimapi dyotate nityam || 62||

iti guru-karuNApA~NgAd AryAbhir-dvyadhika-ShaShTi-sa~NkhyAbhiH |
niravadyAbhir-avochaM nigama-shiras-tantra-sAra-bhUtArtham || 63||

gaditam-imam-AtmavidyA vilAsam-anuvAsaraM smaran-vibudhaH |
pariNata-parAtma-vidyaH prapadyate sapadi paramArtham || 64||

paramashivendra-shrIguru shiShyeNetthaM sadAshivendreNa |
rachiteyam-AtmavidyA vilAsa-nAmnI kRRitiH pUrNA || 65||

iti shrImat-paramahaMsa-parivrAjakAchArya-
shrIparamashivendra-sarasvatI-pAdAbja-sevA-parAyaNa-
shrIsadAshivendra-sarasvatyA virachitaH
AtmavidyA-vilAsaH samAptaH ||

Powered by Blogger.